Saturday, May 18, 2019

अदर्शनं लोपः सूत्र की व्याख्या

लोप संज्ञा के विषय महर्षि पाणिनि की यह सूत्र उद्धृत है - 

 *अदर्शनं लोपः 1|1|60लोप संज्ञा के विषय महर्षि पाणिनि की यह सूत्र उद्धृत है - 

                            *अदर्शनं लोपः 1|1|60* 

🔹सूत्र विच्छेद - अदर्शनं - प्रथमैकवचनम् , लोपः - प्रथमैकवचनम्
🔹संस्कृत सूत्रार्थ - 

प्रसक्तस्य अदर्शनं लोपसंज्ञकः भवति । 
यस्य वर्णस्य दर्शनम् / श्रवणम् / उच्चारणम् / उपलब्धिः न भवति, तस्य वर्णस्य "लोपः" भवति इत्युच्यते । 

🔹हिन्द्यार्थ -   जिस वर्ण का श्रवणेन्द्रिय द्वारा उच्चारण द्वारा अनुपलब्धि हो उसी को लोप कहते हैं या लोप संज्ञा होती है  । यहां लोप से विनाश अर्थ नहीं लेना है अपितु उसका अनुलब्धि ऐसा अर्थ करना है । 

🔹आंग्लभाषार्थ - Something that should be present but is not seen / heard is said to have undergone a लोप.

📕 वैयाकरणसिद्धान्तकौमुदी वृत्तिः - 

 प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात्। 

📕काशिकावृत्तिः - 

अदर्शनम्, अश्रवणम्, अनुच्चारनम्, अनुपलब्धिः, अभावो, वर्णविनाशः इत्यनर्थान्तरम्. एतैः शब्दैर्यो ऽर्थो ऽभिधीयते, तस्य लोपः इति इयं संज्ञा भवति. अर्थस्यैयं संज्ञा, न शब्दस्य. प्रसक्तस्य अदर्शनं लोपसंज्ञं भवति. गोधाया ढ्रक् 4|1|129 गौधेरः. पचेरन्. जीवे रदानुक् जीरदानुः. स्त्रिवेर्मनिनास्रेमाणम्. यकारवकारयोरदर्शनम् इह उदाहरणम्. अपरस्य अनुबन्धादेः प्रसक्तस्य. लोपप्रदेशाःलोपो व्योर् वलि 6|1|66 इत्येवम् आदयः ।

📕महाभाष्यम्  - 

अदर्शनं लोपः अर्थस्य सञ्ज्ञा कर्तव्या। शब्दस्य मा भूदित। इतरेतराश्रयं च भवति। का इतरेतराश्रयता ? सतोऽदर्शनस्य सञ्ञ्ज्ञया भवितव्यम्। सञ्ञ्ज्ञया चादर्शनं भाष्यते। तदितरेतराश्रयं भवति। इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते। लोपसञ्ज्ञायामर्थसतोरुक्तम्। किमुक्तम्? अर्थस्य तावदुक्तम्- इतिकरणोऽर्थनिर्देशार्थे इति। सतोऽप्युक्तम्। सिद्धं तु नित्यशब्दत्वादिति। नित्याः शब्दाः। नित्येषु शब्देषु च सतोऽदर्शनस्य सञ्ज्ञा क्रियते। न हि सञ्ञ्ज्ञया अदर्शनं भाव्यते। सर्वप्रसङ्गस्तु सर्वस्यान्यत्रादृष्टत्वात्। सर्वप्रसङ्गस्तु भवति। सर्वस्यादर्शनस्य लोपसञ्ज्ञा प्राप्नोति। किं कारणम्? सर्वस्यान्यत्रादृष्टत्वात्। सर्वो हि शब्दो यो यस्य प्रयोगविषयः स ततोऽन्यत्र न दृश्यते। त्रपु- जतु इत्यत्राणोऽदर्शनं तत्रादर्शनं लोप इति लोपसह ञ्ज्ञा प्राप्नोति। तत्र को दोषः। तत्र प्रत्ययलक्षणप्रतिषेधः। तत्र प्रत्ययलक्षणं कार्यं प्राप्नोति। तस्य प्रतिषेधो वक्तव्यः। अचो ञ्ञ्णितीति वृद्धिः प्राप्नोति। नैष दोषः। ञ्ञ्णित्यङ्गस्याचो वृद्धिरुच्यते। यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गं भवति। यस्माच्च प्रत्ययविधिर्न तत् प्रत्यये परतः। यच्च प्रत्यये परत, न तस्मात् प्रत्ययविधिः। क्विपस्तर्ह्यदर्शनम्। तत्रादर्शनं लोप इति लोपसञ्ज्ञा प्राप्नोति। तत्र को दोषः। तत्र प्रत्ययलक्षणप्रतिषेधः। तत्र प्रत्ययलक्षणं कार्यं प्राप्नोति, तस्य प्रतिषेधो वक्तव्यः। ह्रस्वस्य पिति कृति तुगित तुक् प्राप्नोति। सिद्धं तु प्रसक्तादर्शनस्य लोपसञ्ञ्ज्ञत्वात्। सिद्धमेतत्। कथम् ? प्रसक्तादर्शनं लोपसञ्ञ्ज्ञं भवतीति वक्तव्यम्। यदि प्रसक्तादर्शनं लोपसञ्ञ्ज्ञं भवति इत्युच्यते, ग्रामणीः--सेनानीः,अत्र वृद्धिः प्राप्नोति। प्रसक्तादर्शनं लोपसंज्ञं भवति षष्ठीनिर्दिष्टस्य। यदि षष्ठीनिर्दिष्टस्येत्युच्यते--चाहलोप एवेत्यवधारणम्। चादिलोपे विभाषा अत्र लोपसञ्ज्ञा न प्राप्नोति। अथ प्रसक्तादर्शनं लोपसञ्ञ्ज्ञं भवतीत्युच्यमाने कथमिवैतत् सिध्यति ? को हि शब्दस्य प्रसङ्गः? यत्र गम्यते चार्थो न च प्रयुज्यते। अस्तु तर्हि प्रसक्तादर्शनं लोपसञ्ञ्ज्ञं भवतीत्येव। कथं ग्रामणीः -सेनानीः ? योऽत्राणः प्रसङ्गः क्विपासौ बाध्यते।।60।।* 
                                          ।।    इत्यलम्    ।।

No comments:

Post a Comment

अदर्शनं लोपः सूत्र की व्याख्या

लोप संज्ञा के विषय महर्षि पाणिनि की यह सूत्र उद्धृत है -   *अदर्शनं लोपः 1|1|60लोप संज्ञा के विषय महर्षि पाणिनि की यह सूत्र उद्धृत है ...